श्री दुर्गा स्तोत्रम् (परशुराम कृतम्)
परशुराम उवाच ।
श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च ।
आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ १ ॥
सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता ।
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ २ ॥
नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता ।
ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ ३ ॥
अहोऽनिर्वचनीया त्वं चारुमूर्तिं च बिभ्रती ।
मोक्षप्रदा मुमुक्षूणां महाविष्णुर्विधिः स्वयम् ॥ ४ ॥
मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् ।
बालैः सम्भूय सहसा सस्मिता धाविता पुरा ॥ ५ ॥
सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी ।
कृष्णस्तां सहसा भीतो वीर्याधानं चकार ह ॥ ६ ॥
ततो डिम्भं महज्जज्ञे ततो जातो महाविराट् ।
यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च ॥ ७ ॥
राधारतिक्रमेणैव तन्निःश्वासो बभूव ह ।
स निःश्वासो महावायुः स विराड्विश्वधारकः ॥ ८ ॥
भयधर्मजलेनैव पुप्लुवे विश्वगोलकम् ।
स विराड्विश्वनिलयो जलराशिर्बभूव ह ॥ ९ ॥
ततस्त्वं पञ्चधा भूय पञ्चमूर्तीश्च बिभ्रती ।
प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः ॥ १० ॥
कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः ।
वेदाधिष्ठातृमूर्तिर्या वेदाशास्त्रप्रसूरपि ॥ ११ ॥
तां सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः ।
ऐश्वर्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी ॥ १२ ॥
लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्वस्वरूपिणीम् ।
रागाधिष्ठातृदेवी या शुक्लमूर्तिः सतां प्रसूः ॥ १३ ॥
सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो ।
बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता ॥ १४ ॥
सर्वमङ्गलदा सन्तो वदन्ति सर्वमङ्गलाम् ।
सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी ॥ १५ ॥
सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना ।
शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके ॥ १६ ॥
सरस्वती च सावित्री वेदसूर्ब्रह्मणः प्रिया ।
राधा रासेश्वरस्यैव परिपूर्णतमस्य च ॥ १७ ॥
परमानन्दरूपस्य परमानन्दरूपिणी ।
त्वत्कलांशांशकलया देवानामपि योषितः ॥ १८ ॥
त्वं विद्या योषितः सर्वाः सर्वेषां बीजरूपिणी ।
छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी ॥ १९ ॥
शची शक्रस्य कामस्य कामिनी रतिरीश्वरी ।
वरुणानी जलेशस्य वायोः स्त्री प्राणवल्लभा ॥ २० ॥
वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी ।
यमस्य तु सुशीला च नैरृतस्य च कैटभी ॥ २१ ॥
ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया ।
देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती ॥ २२ ॥
लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा ।
अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा ॥ २३ ॥
गङ्गा च तुलसी चापि पृथिव्यां याः सरिद्वरा ।
एताः सर्वाश्च या ह्यन्या सर्वास्त्वत्कलयाम्बिके ॥ २४ ॥
गृहलक्ष्मीर्गृहे नॄणां राजलक्ष्मीश्च राजसु ।
तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च ॥ २५ ॥
सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा ।
ज्योतिरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च ॥ २६ ॥
सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने ।
जले शैत्यस्वरूपा च शोभारूपा निशाकरे ॥ २७ ॥
त्वं भूमौ गन्धरूपा चाप्याकाशे शब्दरूपिणी ।
क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः ॥ २८ ॥
सर्वबीजस्वरूपा त्वं संसारे साररूपिणी ।
स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम् ॥ २९ ॥
कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसूः शुभा ।
शूलिने कृपया सा त्वं यया मृत्युञ्जयः शिवः ॥ ३० ॥
सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः ।
ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते ॥ ३१ ॥
मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः ।
स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम् ॥ ३२ ॥
मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् ।
बभूव शक्तिमान् स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥ ३३ ॥
त्रिपुरस्य महायुद्धे सरथे पतिते शिवे ।
यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम् ॥ ३४ ॥
विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः ।
जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥ ३५ ॥
यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम् ।
वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम् ॥ ३६ ॥
यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः ।
मृत्युश्चरति जन्तूनां तां दुर्गां प्रणमाम्यहम् ॥ ३७ ॥
स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया ।
संहर्ता संहरेत्काले तां दुर्गां प्रणमाम्यहम् ॥ ३८ ॥
ज्योतिःस्वरूपो भगवान् श्रीकृष्णो निर्गुणः स्वयम् ।
यया विना न शक्तश्च सृष्टिं कर्तुं नमामि ताम् ॥ ३९ ॥
रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे ।
शिशूनामपराधेन कुतो माता हि कुप्यति ॥ ४० ॥
इत्युक्त्वा परशुरामश्च नत्वा तां च रुरोद ह ।
तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ ॥ ४१ ॥
अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज ।
शर्वप्रसादात्सर्वत्र जयोऽस्तु तव सन्ततम् ॥ ४२ ॥
सर्वान्तरात्मा भगवांस्तुष्टः स्यात्सन्ततं हरिः ।
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ॥ ४३ ॥
इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती ।
तं हन्तुं न हि शक्ता वा रुष्टा वा सर्वदेवताः ॥ ४४ ॥
श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शङ्करस्य च ।
गुरुपत्नीं स्तौषि यस्मात्कस्त्वां हन्तुमिहेश्वरः ॥ ४५ ॥
अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् ।
अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कुशाः ॥ ४६ ॥
चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो ।
तेषां तारागणा रुष्टाः किं कुर्वन्ति च दुर्बलाः ॥ ४७ ॥
यस्मै तुष्टः पालयति नरदेवो महान्सुखी ।
तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः ॥ ४८ ॥
इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाशिषम् ।
जगामान्तःपुरं तूर्णं हरिशब्दो बभूव ह ॥ ४९ ॥
स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत् ।
यात्राकाले तथाप्रातर्वाञ्छितार्थं लभेद्ध्रुवम् ॥ ५० ॥
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् ।
विद्यार्थी लभते विद्यां प्रजार्थी चाप्नुयात्प्रजाः ॥ ५१ ॥
भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत् ।
यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा ॥ ५२ ॥
तस्य तुष्टश्च वरदः स्तोत्रराजप्रसादतः ।
दस्युग्रस्तः फणिग्रस्तः शत्रुग्रस्तो भयानकः ॥ ५३ ॥
व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः ।
राजद्वारे श्मशाने च कारागारे च बन्धने ॥ ५४ ॥
जलराशौ निमग्नश्च मुक्तस्तत् स्मृतिमात्रतः ।
स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे ॥ ५५ ॥
स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्ध्रुवम् ।
कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या ॥ ५६ ॥
भक्त्या दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते ।
लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् ॥ ५७ ॥
असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत् ।
नवमासं काकवन्ध्या मृतवत्सा च भक्तितः ॥ ५८ ॥
स्तोत्रराजं या शृणोति सा पुत्रं लभते ध्रुवम् ।
कन्यामाता पुत्रहीना पञ्चमासं शृणोति या ।
घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम् ॥ ५९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे नारदनारायणसंवादे
पञ्चचत्वारिंशोऽध्याये परशुरामकृत दुर्गा स्तोत्रम् ।