श्री मङ्गलचण्डिका स्तोत्रम्
ध्यानम् ।
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥ १ ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २ ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ ३ ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ ४ ॥
संसारसागरे घोरे पोतरुपां वरां भजे ॥ ५ ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।
प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥ ६ ॥
शङ्कर उवाच ।
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।
संहर्त्रि विपदां राशेर्हर्षमङ्गलकारिके ॥ ७ ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ।
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥ ८ ॥
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।
सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥ ९ ॥
पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ १० ॥
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ११ ॥
सारे च मङ्गलाधारे पारे त्वं सर्वकर्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये त्वं मङ्गलप्रदे ॥ १२ ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥ १३ ॥
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् ॥ १४ ॥
प्रथमे पूजिता देवी शम्भुना सर्वमङ्गला ।
द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥ १५ ॥
तृतीये पूजिता भद्रा मङ्गलेन नृपेण च ।
चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ।
पञ्चमे मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका ॥ १६ ॥
पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा ।
ततः सर्वत्र सम्पूज्य सा बभूव सुरेश्वरी ॥ १७ ॥
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ।
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ॥ १८ ॥
तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् ।
वर्धन्ते तत्पुत्रपौत्रा मङ्गलं च दिने दिने ॥ १९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे चतुश्चत्वारिंशोऽध्याये मंफ़्गल चण्डिका स्तोत्रम् ।