श्री दीप दुर्गा कवचम्
श्री भैरव उवाच ।
शृणु देवि जगन्मातर्ज्वालादुर्गां ब्रवीम्यहम् ।
कवचं मन्त्रगर्भं च त्रैलोक्यविजयाभिदम् ॥ १ ॥
अप्रकाश्यं परं गुह्यं न कस्य कथितं मया ।
विनामुना न सिद्धिः स्यात् कवचेन महेश्वरि ॥ २ ॥
अवक्तव्यमदातव्यं दुष्टायाऽसाधकाय च ।
निन्दकायान्यशिष्याय न वक्तव्यं कदाचन ॥ ३ ॥
श्री देव्युवाच ।
त्रैलोक्यनाथ वद मे बहुधा कथितं मया ।
स्वयं त्वया प्रसादोऽयं कृतः स्नेहेन मे प्रभो ॥ ४ ॥
श्री भैरव उवाच ।
प्रभाते चैव मध्याह्ने सायङ्कालेर्धरात्रके ।
कवचं मन्त्रगर्भं च पठनीयं परात्परम् ॥ ५ ॥
मधुना मत्स्यमांसादिमोदकेन समर्चयेत् ।
देवतां परया भक्त्या पठेत् कवचमुत्तमम् ॥ ६ ॥
ओं ह्रीं मे पातु मूर्धानं ज्वाला द्व्यक्षरमातृका ।
ओं ह्रीं श्रीं मेऽवतात् फालं त्र्यक्षरी विश्वमातृका ॥ ७ ॥
ओं ऐं क्लीं सौः ममाव्यात् सा देवी माया भ्रुवौ मम ।
ओं अं आं इं ईं सौः पायान्नेत्रा मे विश्वसुन्दरी ॥ ८ ॥
ओं ह्रीं ह्रीं सौः पुत्र नासां उं ऊं कर्णौ च मोहिनी ।
ऋं ॠं लृं लॄं सौः मे बाला पायाद्गण्डौ च चक्षुषी ॥ ९ ॥
एं ऐं ओं औं सदाऽव्यान्मे मुखं श्री भगरूपिणी ।
अं अः ओं ह्रीं क्लीं सौः पायाद्गलं मे भगधारिणी ॥ १० ॥
कं खं गं घं (ओं ह्रीं) सौः स्कन्धौ मे त्रिपुरेश्वरी ।
ङं चं छं जं (ह्रीं) सौः वक्षः पायाच्च बैन्दवेश्वरी ॥ ११ ॥
झं ञं टं ठं सौः ऐं क्लीं हूं ममाव्यात् सा भुजान्तरम् ।
डं ढं णं तं स्तनौ पायाद्भेरुण्डा मम सर्वदा ॥ १२ ॥
थं दं धं नं कुक्षिं पायान्मम ह्रीं श्रीं परा जया ।
पं फं बं श्रीं ह्रीं सौः पार्श्वं मृडानी पातु मे सदा ॥ १३ ॥
भं मं यं रं श्रीं सौः लं वं नाभिं मे पातु कन्यकाः ।
शं षं सं हं सदा पातु गुह्यं मे गुह्यकेश्वरी ॥ १४ ॥
वृक्षः पातु सदा लिङ्गं ह्रीं श्रीं लिङ्गनिवासिनी ।
ऐं क्लीं सौः पातु मे मेढ्रं पृष्ठं मे पातु वारुणी ॥ १५ ॥
ओं श्रीं ह्रीं क्लीं हुं हूं पातु ऊरू मे पात्वमासदा ।
ओं ऐं क्लीं सौः यां वात्याली जङ्घे पायात्सदा मम ॥ १६ ॥
ओं श्रीं सौः क्लीं सदा पायाज्जानुनी कुलसुन्दरी ।
ओं श्रीं ह्रीं हूं कूवली च गुल्फौ ऐं श्रीं ममाऽवतु ॥ १७ ॥
ओं श्रीं ह्रीं क्लीं ऐं सौः पायात् कुण्ठी क्लीं ह्रीं ह्रौः मे तलम् ।
ओं ह्रीं श्रीं पादौ सौः पायद् ह्रीं श्रीं क्लीं कुत्सिता मम ॥ १८ ॥
ओं ह्रीं श्रीं कुटिला ह्रीं क्लीं पादपृष्ठं च मेऽवतु ।
ओं श्रीं ह्रीं श्रीं च मे पातु पादस्था अङ्गुलीः सदा ॥ १९ ॥
ओं ह्रीं सौः ऐं कुहूः मज्जां ओं श्रीं कुन्ती ममाऽवतु ।
रक्तं कुम्भेश्वरी ऐं क्लीं शुक्लं पायाच्च खेचरी ॥ २० ॥
पातु मेऽङ्गानि सर्वाणि ओं ह्रीं श्रीं क्लीं ऐं सौः सदा ।
पादादिमूर्धपर्यन्तं ह्रीं क्लीं श्रीं कारुणी सदा ॥ २१ ॥
मूर्धादिपादपर्यन्तं पातु क्लीं श्रीं कृतिर्मम ।
ऊर्ध्वं मे पातु ब्रां ब्राह्मीं अधः श्रीं शाम्भवी मम ॥ २२ ॥
दुं दुर्गा पातु मे पूर्वे वां वाराही शिवालये ।
ह्रीं क्लीं हूं श्रीं च मां पातु उत्तरे कुलकामिनी ॥ २३ ॥
नारसिंही सौः ऐं क्लीं (ह्रीं) वायव्ये पातु मां सदा ।
ओं श्रीं क्लीं ऐं च कौमारी पश्चिमे पातु मां सदा ॥ २४ ॥
ओं ह्रीं श्रीं निरृतौ पातु मातङ्गी मां शुभङ्करी ।
ओं श्रीं ह्रीं क्लीं सदा पातु दक्षिणे भद्रकालिका ॥ २५ ॥
ओं श्रीं ऐं क्लीं सदाऽग्नेय्यामुग्रतारा तदाऽवतु ।
ओं वं दशदिशो रक्षेन्मां ह्रीं दक्षिणकालिका ॥ २६ ॥
सर्वकालं सदा पातु ऐं सौः त्रिपुरसुन्दरी ।
मारीभये च दुर्भिक्षे पीडायां योगिनीभये ॥ २७ ॥
ओं ह्रीं श्रीं त्र्यक्षरी पातु देवी ज्वालामुखी मम ।
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २८ ॥
त्रैलोक्यविजयं नाम मन्त्रगर्भं महेश्वरी ।
अस्य प्रसादादीशोऽहं भैरवाणां जगत्त्रये ॥ २९ ॥
सृष्टिकर्तापहर्ता च पठनादस्य पार्वती ।
कुङ्कुमेन लिखेद्भूर्जे आसवेनस्वरेतसा ॥ ३० ॥
स्तम्भयेदखिलान् देवान् मोहयेदखिलाः प्रजाः ।
मारयेदखिलान् शत्रून् वशयेदपि देवताः ॥ ३१ ॥
बाहौ धृत्वा चरेद्युद्धे शत्रून् जित्वा गृहं व्रजेत् ।
प्रोते रणे विवादे च कारायां रोगपीडने ॥ ३२ ॥
ग्रहपीडादि कालेषु पठेत् सर्वं शमं व्रजेत् ।
इतीदं कवचं देवि मन्त्रगर्भं सुरार्चितम् ॥ ३३ ॥
यस्य कस्य न दातव्यं विना शिष्याय पार्वति ।
मासेनैकेन भवेत् सिद्धिर्देवानां या च दुर्लाभा ।
पठेन्मासत्रयं मर्त्यो देवीदर्शनमाप्नुयात् ॥ ३४ ॥
इति श्री रुद्रयामल तन्त्रे श्रीभैरवदेवि संवादे श्रीदीपदुर्गा कवच स्तोत्रम् ।